|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.170. अध्यायः 170
Mahabharata - Adi Parva - Chapter Topics
वने चरतां पाण्डवानां व्यासेन सान्त्वनं एकचक्रानगर्यां ब्राह्मणगृहे स्थापनं च॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
`वैशम्पायन उवाच। 1-170-0x(995)(7742)
ततस्ते पाण्डवाः सर्वे शालिहोत्राश्रमे तदा।
पूजितास्तेन वन्येन तमामन्त्र्य महामुनिम्॥ 1-170-1(7743)
जटाः कृत्वाऽऽत्मनः सर्वे वल्कलाजिनवाससः।
कुन्त्या सह महात्मानो बिभ्रतस्तापसं वपुः॥ 1-170-2(7744)
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः।
नीतिशास्त्रं च धर्मज्ञा न्यायज्ञानं च पाण्डवाः॥ 1-170-3(7745)
शालिहोत्रप्रसादेन लब्ध्वा प्रीतिमवाप्य च।'
ते वनेन वनं गत्वा घ्नन्तो मृगगणान्बहून्।
अपक्रम्य ययू राजंस्त्वरमाणा महारथाः॥ 1-170-4(7746)
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च।
रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च॥ 1-170-5(7747)
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः।
`क्वचिच्छ्रान्ताश्च कान्तारे क्वचित्तिष्ठन्ति हर्षिताः'॥ 1-170-6(7748)
क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः।
पथि द्वैपायन सर्वे ददृशुः स्वपितामहम्॥ 1-170-7(7749)
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा।
तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः॥ 1-170-8(7750)
व्यास उवाच। 1-170-9x(996)
तदाश्रमान्निर्गमनं मया ज्ञातं नरर्षभाः।
घटोत्कचस्य चोत्पत्तिं ज्ञात्वा प्रीतिरवर्धत॥ 1-170-9(7751)
इदं नगरमभ्याशे रमणीयं निरामयम्।
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः॥ 1-170-10(7752)
वैशम्पायन उवाच। 1-170-11x(997)
एवं स तान्समाश्वास्य व्यासः पार्तानरिन्दमान्।
एकचक्रामभिगतां कुन्तीमाश्वासयत्प्रभुः॥ 1-170-11(7753)
श्रीव्यास उवाच। 1-170-12x(998)
कुर्यान्न केवलं धर्मं दुष्कृतं च तथान नरः।
सुकृतं दुष्कृतं लोके न कर्ता नास्ति कश्चन॥ 1-170-12(7754)
अवश्यं लभते कर्ता फलं वै पुण्यपापयोः।
दुष्कृतस्य फलेनैव प्राप्तं व्यसनमुत्तमम्॥ 1-170-13(7755)
तस्मान्माधवि मानार्हे मा च शोके मनः कृथाः। 1-170-14(7756)
वैशम्पायन उवाच।
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने॥ 1-170-14x(999)
जगाम भगवान्व्यासो यताकाममृषिः प्रभुः॥ ॥ 1-170-15(7757)
इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि सप्तत्यधिकशततमोऽध्यायः॥ 170 ॥ ॥ समाप्तं हिडिम्बवधपर्व ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|